वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: नोधा छन्द: निचृद्बृहती स्वर: मध्यमः

प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अन्ते॑भ्य॒स्परि॑ । न त्वा॑ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥

अंग्रेज़ी लिप्यंतरण

pra hi ririkṣa ojasā divo antebhyas pari | na tvā vivyāca raja indra pārthivam anu svadhāṁ vavakṣitha ||

पद पाठ

प्र । हि । रि॒रि॒क्षे॒ । ओज॑सा । दि॒वः । अन्ते॑भ्यः । परि॑ । न । त्वा॒ । वि॒व्या॒च॒ । रजः॑ । इ॒न्द्र॒ । पार्थि॑वम् । अनु॑ । स्व॒धाम् । व॒व॒क्षि॒थ॒ ॥ ८.८८.५

ऋग्वेद » मण्डल:8» सूक्त:88» मन्त्र:5 | अष्टक:6» अध्याय:6» वर्ग:11» मन्त्र:5 | मण्डल:8» अनुवाक:9» मन्त्र:5